हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता  
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Sri Rama Kavacham – श्री राम कवचम्


अगस्तिरुवाच ।
आजानुबाहुमरविन्ददलायताक्ष-
-माजन्मशुद्धरसहासमुखप्रसादम् ।
श्यामं गृहीत शरचापमुदाररूपं
रामं सराममभिराममनुस्मरामि ॥ १ ॥

अस्य श्रीरामकवचस्य अगस्त्य ऋषिः अनुष्टुप् छन्दः सीतालक्ष्मणोपेतः श्रीरामचन्द्रो देवता श्रीरामचन्द्रप्रसादसिद्ध्यर्थे जपे विनियोगः ।

अथ ध्यानम् ।
नीलजीमूतसङ्काशं विद्युद्वर्णाम्बरावृतम् ।
कोमलाङ्गं विशालाक्षं युवानमतिसुन्दरम् ॥ १ ॥

सीतासौमित्रिसहितं जटामुकुटधारिणम् ।
सासितूणधनुर्बाणपाणिं दानवमर्दनम् ॥ २ ॥

यदा चोरभये राजभये शत्रुभये तथा ।
ध्यात्वा रघुपतिं क्रुद्धं कालानलसमप्रभम् ॥ ३ ॥

चीरकृष्णाजिनधरं भस्मोद्धूलितविग्रहम् ।
आकर्णाकृष्टविशिखकोदण्डभुजमण्डितम् ॥ ४ ॥

रणे रिपून् रावणादींस्तीक्ष्णमार्गणवृष्टिभिः ।
संहरन्तं महावीरमुग्रमैन्द्ररथस्थितम् ॥ ५ ॥

लक्ष्मणाद्यैर्महावीरैर्वृतं हनुमदादिभिः ।
सुग्रीवाद्यैर्माहावीरैः शैलवृक्षकरोद्यतैः ॥ ६ ॥

वेगात्करालहुङ्कारैर्भुभुक्कारमहारवैः ।
नदद्भिः परिवादद्भिः समरे रावणं प्रति ॥ ७ ॥

श्रीराम शत्रुसङ्घान्मे हन मर्दय खादय ।
भूतप्रेतपिशाचादीन् श्रीरामाशु विनाशय ॥ ८ ॥

एवं ध्यात्वा जपेद्रामकवचं सिद्धिदायकम् ।
सुतीक्ष्ण वज्रकवचं शृणु वक्ष्याम्यनुत्तमम् ॥ ९ ॥

अथ कवचम् ।
श्रीरामः पातु मे मूर्ध्नि पूर्वे च रघुवंशजः ।
दक्षिणे मे रघुवरः पश्चिमे पातु पावनः ॥ १० ॥

उत्तरे मे रघुपतिर्भालं दशरथात्मजः ।
भ्रुवोर्दूर्वादलश्यामस्तयोर्मध्ये जनार्दनः ॥ ११ ॥

श्रोत्रं मे पातु राजेन्द्रो दृशौ राजीवलोचनः ।
घ्राणं मे पातु राजर्षिर्गण्डौ मे जानकीपतिः ॥ १२ ॥

कर्णमूले खरध्वंसी भालं मे रघुवल्लभः ।
जिह्वां मे वाक्पतिः पातु दन्तपङ्क्ती रघूत्तमः ॥ १३ ॥

ओष्ठौ श्रीरामचन्द्रो मे मुखं पातु परात्परः ।
कण्ठं पातु जगद्वन्द्यः स्कन्धौ मे रावणान्तकः ॥ १४ ॥

धनुर्बाणधरः पातु भुजौ मे वालिमर्दनः ।
सर्वाण्यङ्गुलिपर्वाणि हस्तौ मे राक्षसान्तकः ॥ १५ ॥

वक्षो मे पातु काकुत्स्थः पातु मे हृदयं हरिः ।
स्तनौ सीतापतिः पातु पार्श्वं मे जगदीश्वरः ॥ १६ ॥

मध्यं मे पातु लक्ष्मीशो नाभिं मे रघुनायकः ।
कौसल्येयः कटी पातु पृष्ठं दुर्गतिनाशनः ॥ १७ ॥

गुह्यं पातु हृषीकेशः सक्थिनी सत्यविक्रमः ।
ऊरू शार्ङ्गधरः पातु जानुनी हनुमत्प्रियः ॥ १८ ॥

जङ्घे पातु जगद्व्यापी पादौ मे ताटकान्तकः ।
सर्वाङ्गं पातु मे विष्णुः सर्वसन्धीननामयः ॥ १९ ॥

ज्ञानेन्द्रियाणि प्राणादीन् पातु मे मधुसूदनः ।
पातु श्रीरामभद्रो मे शब्दादीन्विषयानपि ॥ २० ॥

द्विपदादीनि भूतानि मत्सम्बन्धीनि यानि च ।
जामदग्न्यमहादर्पदलनः पातु तानि मे ॥ २१ ॥

सौमित्रिपूर्वजः पातु वागादीनीन्द्रियाणि च ।
रोमाङ्कुराण्यशेषाणि पातु सुग्रीवराज्यदः ॥ २२ ॥

वाङ्मनोबुद्ध्यहङ्कारैर्ज्ञानाज्ञानकृतानि च ।
जन्मान्तरकृतानीह पापानि विविधानि च ॥ २३ ॥

तानि सर्वाणि दग्ध्वाशु हरकोदण्डखण्डनः ।
पातु मां सर्वतो रामः शार्ङ्गबाणधरः सदा ॥ २४ ॥

इति श्रीरामचन्द्रस्य कवचं वज्रसम्मितम् ।
गुह्याद्गुह्यतमं दिव्यं सुतीक्ष्ण मुनिसत्तम ॥ २५ ॥

यः पठेच्छृणुयाद्वापि श्रावयेद्वा समाहितः ।
स याति परमं स्थानं रामचन्द्रप्रसादतः ॥ २६ ॥

महापातकयुक्तो वा गोघ्नो वा भ्रूणहा तथा ।
श्रीरामचन्द्रकवचपठनाच्छुद्धिमाप्नुयात् ॥ २७ ॥

ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ।
भो सुतीक्ष्ण यथा पृष्टं त्वया मम पुराः शुभम् ।
तथा श्रीरामकवचं मया ते विनिवेदितम् ॥ २८ ॥

इति श्रीमदानन्दरामायणे मनोहरकाण्डे सुतीक्ष्णागस्त्यसंवादे श्रीरामकवचम् ।


Sri Raama Stotras – श्री राम स्तोत्राणि

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.